प्रश्न १. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्था नानि पूरयन्तु —
| पुरुष | एकवचन | द्विवचन | बहुवचन |
|---|---|---|---|
| प्रथम पुरुष | लिखतु | लिखताम् | लिखन्तु |
| मध्यम पुरुष | लिख / | लिखतम् | लिखत |
| उत्तम पुरुष | लिखानि | लिखाव | लिखाम |
| पुरुष | एकवचन | द्विवचन | बहुवचन |
|---|---|---|---|
| प्रथम पुरुष | क्रीडतु | क्रीडताम् | क्रीडन्तु |
| मध्यम पुरुष | क्रीड | क्रीडतम् | क्रीडत |
| उत्तम पुरुष | क्रीडानि | क्रीडाव | क्रीडाम |
प्रश्न २. निम्नलिखितेषु सुभाषिततेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु —
उत्तर –
(क) काले वर्षतु पर्जन्यः… — वर्षतु, सन्तु.
(ख) सर्वे भवन्तु सुखिनः… — भवन्तु, सन्तु, पश्यन्तु.
(ग) इमा आपः शिवाः सन्तु… — सन्तु.
(घ) निन्दन्तु नीतिनिपुणा… — निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु, भवतु.
प्रश्न ३. उदाहरण के अनुसार लट्-लकार को लोट्-लकार में बदलें:
उत्तर –
खादति — खादतु
क्रीडामि — क्रीडानि
पश्यसि — पश्य
हसति — हसतु
नयसि — नय
नृत्यति — नृत्यतु
गच्छामि — गच्छानि
प्रश्न ४. उदाहरणानुगुणम् लोट्लकारस्य रूपाणि लिखन्तु।
उत्तिष्ठतु — उत्तिष्ठन्तु
खादतु — खादन्तु
आगच्छतु — आगच्छन्तु
पठतु — पठन्तु
उपविशतु — उपविशन्तु
पततु — पतन्तु
गच्छतु — गच्छन्तु
प्रश्न ५. उदाहरणानुगुणम् बहुवचनस्य रूपाणि लिखन्तु —
उत्तर:
- उत्तिष्ठतु — उत्तिष्ठन्तु
- खादतु — खादन्तु
- आगच्छतु — आगच्छन्तु
- पठतु — पठन्तु
- उपविशतु — उपविशन्तु
- पततु — पतन्तु
- गच्छतु — गच्छन्तु
प्रश्न ५. विद्यालयस्य वार्षिकोत्सवे के-के किं-किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु —
यथा – दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्ति ।
दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्तु ।
(क) प्रधानाध्यापकः वार्षिकं विवरणं पठति।
उत्तर — प्रधानाध्यापकः वार्षिकं विवरणं पठतु।
(ख) बालिकाः नृत्यन्ति।
उत्तर — बालिकाः नृत्यन्तु।
(ग) यूयम् आसन्दान् स्थापयथ।
उत्तर — यूयम् आसन्दान् स्थापयत।
(घ) छात्रनायकः स्वागतं करोति।
उत्तर — छात्रनायकः करोतु।
(ङ) मम मित्रं धन्यवादं निवेदयति।
उत्तर — मम मित्रं धन्यवादं निवेदयतु।
(च) संस्कृत-शिक्षिका वेदिकां संचालयति।
उत्तर — संस्कृत-शिक्षिका वेदिकां संचालयतु।
(छ) छात्राः उत्थाय राष्ट्रगीतं गायन्ति।
उत्तर — छात्राः उत्थाय राष्ट्रगीतं गायन्तु।
प्रश्न ६.पट्टिकात: उचितै: क्रियारूपैः अनुच्छेदस्य रिक्तस्थानानि पूरयन्तु —
उत्तर –
यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु। उपचारवाक्येन तम् अभिवादयन्तु। यदा सः वदति तदा एव सर्वे उपविशन्तु। तस्य सूचनानुसारं पाठं पठन्तु। गृहपाठं लिखन्तु। परस्परं वार्तालापं न कुर्वन्तु। प्रश्नस्य उत्तरं वदन्तु। संशयं पृच्छन्तु। तस्य उपदेशं शृण्वन्तु। बहिः मा गच्छन्तु।
प्रश्न ७. मार्गे सूचनादीपाः फलकानि च भवन्ति। तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानिरिक्तस्था नेषु लिखन्तु —
उत्तर –
लाल बत्ती: तिष्ठ ।
पीली बत्ती: प्रतीक्षस्व ।
हरी बत्ती: गच्छ ।
अन्य फलक: वामतः गच्छ, दक्षिणतः गच्छ, यानं मा स्थापय, अग्रे विद्यालयः।
प्रश्न ८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु —
(क) अम्ब! अहम् क्रीडार्थं गच्छानि। (गच्छ्)
(ख) आगच्छन्तु, वयं प्रार्थनागीतं गायाम। (गाय)
(ग) ज्वरः अस्ति। पुत्र! वृष्टौ न क्रीड। (क्रीड्)
(घ) लते! भवती मम उपनेत्रम् आनयतु। (आ + नय्)
(ङ) आर्य! अहमन्तः प्रविशानि। (प्र + विश्)
(च) अहम् पृच्छामि त्वम् उत्तरं वद। (वद्)
(छ) यूयं शीघ्रं नगरम् आगच्छत। (आ + गच्छ्)
(ज) तात! वयं कदा चलचित्रं पश्याम। (पश्य)
प्रश्न ९. चिह्नानि ( ? ! । , ) भावानुसारं वाक्ये योजयन्तु —
(क) पुत्र ! किं करोषि ?
(ख) कः श्लोकं वदति ?
(ग) भवान् तत्र तिष्ठतु ।
(घ) आचार्याः कदा आगच्छति ?
(ङ) अहो ! रमणीयः पर्वतः ।