प्रश्न १. एतानि सर्वा सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तर – छात्र याद करें।
प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत ।
(क) पृथिव्यां कति रत्नाणि सन्ति?
उत्तर: त्रीणि
(ख) अयं निजः परो वा इति गणना केषां भवति?
उत्तर: लघुचेतसाम्
(ग) कार्याणि केन सिध्यन्ति?
उत्तर: उद्यमेन
(घ) विद्या किं ददाति?
उत्तर: विनयम्
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी?
उत्तर: स्वर्गादपि
(च) लङ्का कीदृशी आसीत्?
उत्तर: स्वर्णमयी
प्रश्न ३. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखत।
(क) पृथिव्यां त्रीणि रत्नाणि काणि सन्ति?
उत्तर: पृथिव्यां त्रीणि रत्नाणि जलम्, अन्नम्, सुभाषितं च सन्ति।
(ख) उदारचरितानां भावः कः भवति?
उत्तर: उदारचरितानां तु वसुधा एव कुटुम्बकं भवति।
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति?
उत्तर: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति।
(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते?
उत्तर: अभिवादनशीलस्य नित्यं आयुः, विद्या, यशः, बलं च चत्वारि वर्धन्ते।
(ङ) मनुष्यः धनात् किं आप्नोति?
उत्तर: मनुष्यः धनात् धर्मम् आप्नोति।
(च) उत्पन्नेषु कार्येषु कीदृशं धनं उपयोगाय न भवति?
उत्तर: उत्पन्नेषु कार्येषु परहस्तगतं धनं उपयोगाय न भवति।
४. चित्रं दृष्ट्वा वाक्यानि रचयन्तु —
उत्तर:
यथा : वृक्षः फलानि यच्छति।
(क) एतत् रक्तं पाटलपुष्पम् अस्ति।
(ख) सिंहः वनस्य राजा अस्ति।
(ग) एतत् मधुरं फलम् अस्ति।
(घ) जननी मम पूज्या अस्ति।
(ङ) पुस्तकानि अस्माकं मित्राणि सन्ति।
प्रश्न ५. अधोलिखितान् वाक्यान् पठित्वा ‘आम्’ अथवा ‘न’ इति लिखत।
(क) त्रीणि रत्नाणि जलं अन्नं पाषाणाः च सन्ति? — न
(ख) किं धर्मेण सुखं प्राप्यते? — आम्
(ग) किं विद्या विनयं ददाति? — आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते? — आम्
प्रश्न ‘६. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु’
उत्तर:
सेवफलम् — नपुंसकलिङ्गम्
वृक्षः — पुंल्लिङ्गम्
पाटलपुष्पम् / पुष्पम् — नपुंसकलिङ्गम्
काष्ठम् — नपुंसकलिङ्गम्
छाया — स्त्रीलिङ्गम्
पत्रम् / पत्राणि — नपुंसकलिङ्गम्
प्रश्न ८. पट्टिकातः पदानि चित्वा निर्देशानुसारं लिखत।
(शब्द: जननी, धैर्यम्, विद्या, बुद्धिः, पराक्रमाः, शक्तिः, धनम्, उद्यमाः, मुखम्)
उत्तर –
(क) पुंल्लिङ्ग-पदानि: उद्यमाः, पराक्रमाः।
(ख) स्त्रीलिङ्ग-पदानि: जननी, विद्या, बुद्धिः, शक्तिः।
(ग) नपुंसकलिङ्ग-पदानि: धैर्यम्, धनम्, मुखम्।
प्रश्न ९. श्लोकों के आधार पर रिक्त स्थान भरें:
उत्तर –
(क) पृथिव्यां त्रीणि रत्नाणि जलमन्नं सुभाषितम्।
(ख) उदारचरितानां तु वसुधैव कुटुम्बकं भवति।
(ग) उद्यमेन हि कार्याणि सिध्यन्ति।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते।
(ङ) उद्यमाः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमाः।
(च) विद्या विनयं ददाति।
(छ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति।