प्रश्न १. उचितं चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु।

उत्तर –

(क) नयनम्

(ख) उदरम्

(ग) पादः

(घ) भुजः

(ङ) कर्णः

 

प्रश्न २. कोष्ठकात् समुचितं क्रियापदं चित्वा अङ्गस्य कार्यं लिखन्तु।

(यथा – नयनं – पश्यति)

(क) मुखम् – वदति

(ख) पादः – चलति

(ग) कर्णः – शृणोति

(घ) नासिका – आघ्राणं करोति

(ङ) जिह्वा – आस्वादनं करोति

 

प्रश्न ३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु।

(क) मम एकम् शिरः अस्ति।

(ख) मम द्वौ पादौ स्तः।

(ग) मम बहवः केशाः सन्ति। (

(घ) मम द्वात्रिंशत् दन्ताः सन्ति।

(ङ) मम हस्तयोः दश अङ्गुल्यः सन्ति।

 

प्रश्न ४. क्रियापदं दृष्ट्वा शरीराङ्गस्य नाम लिखन्तु (क्रिया देखकर अंग का नाम लिखें):

(यथा – पश्यति – नयनम्)

(क) शृणोति – कर्णः

(ख) धावति – पादद्वयम्

(ग) नमति – शिरः

(घ) सूचयति – अङ्गुली

(ङ) लिखति – हस्तः

 

प्रश्न ५. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु।

मुख/शिर (Face/Head): नासिका, चिबुकम्, कपोलः, ललाटम्, नयनम्।

हस्त (Hands): मणिबन्धः, कूर्परः, हस्तः, भुजः, स्कन्धः।

पाद (Legs): जङ्घा, जानु, ऊरुः।

 

प्रश्न ६. कोष्ठकात् समुचितं पदं चित्वा वाक्यानि रचयन्तु।

(क) अहं मुखेन गायनं करोमि।

(ख) अहं पादाभ्यां धावनं करोमि।

(ग) अहं नासिकया आघ्राणं करोमि।

(घ) अहं कर्णाभ्याम् श्रवणं करोमि।

(ङ) अहं मुखेन भोजनं करोमि।

 

प्रश्न ७. भगिनी कुत्र किं धरति?

१. भगिनी पादयोः पादुकाद्वयं धरति।

२. भगिनी हस्तयोः कङ्कणानि धरति।

३. भगिनी अङ्गुल्यां मुद्रिकां धरति।

४. भगिनी वामहस्ते घटीयन्त्रं धरति।

५. भगिनी कण्ठे मालां धरति।

६. भगिनी कर्णयोः कुण्डलद्वयं धरति।

७. भगिनी नयनयोः उपनेत्रं धरति।

८. भगिनी ललाटे कुङ्कुमं धरति।

९. भगिनी ओष्ठयोः ओष्ठरागं धरति।

१०. भगिनी नेत्रयोः कज्जलं धरति।

 

प्रश्न ८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु 

(क) अहं कर्णाभ्यां भोजनं करोमि। — अशुद्धम्

(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि। — शुद्धम्

(ग) अहम् अङ्गुष्ठैः गणनां करोमि। — शुद्धम्

(घ) अहं नयनाभ्यां श्रवणं करोमि। — अशुद्धम्

(ङ) अहं हस्तेन कायां करोमि। — शुद्धम्

Scroll to Top