प्रश्न १. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत।
(क) भिक्षुः किं करोति स्म?
उत्तर: भिक्षाटनम्
(ख) कदाचित् तेन मार्गेण कः आगच्छति?
उत्तर: कश्चित् धनिकः
(ग) भिक्षुः धनिकात् किम् इच्छति?
उत्तर: प्रभूतं धनम्
(घ) धनिकः भिक्षुकात किं याचितवान्?
उत्तर: तस्य हस्तौ पादौ च
(ङ) सौभाग्नेय वयं किं प्राप्तवन्तः?
उत्तर: मानवजन्म
प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि ‘आम्’ अथवा ‘न’ इति पदेन लिखन्तु —
उत्तर –
(क) भिक्षुः उन्नतः दृढकायः च आसीत्। — आम्
(ख) जनाः तस्मै धनं यच्छन्ति। — आम्
(ग) भिक्षुः प्रभूतं धनम् इच्छति। — आम्
(घ) भिक्षुः धनिकाय पादौ ददाति। — न
(ङ) भिक्षुः भिक्षाटनं त्यजति। — आम्
प्रश्न ३. अधोलिखितेषु वाक्येषु द्वितीयाविभक्तेः शब्दानां द्विवचने परिवर्तनं कृत्वा वाक्यानिलिखन्तु —
उत्तर –
(क) आर्चिकः अङ्कनीं ददाति। — आर्चिकः अङ्कन्यौ ददाति।
(ख) मातामही कथां श्रावयति। — मातामही कथे श्रावयति।
(ग) सैनिकः मां रक्षति। — सैनिकः आवाम् रक्षति।
(घ) कृषकः कन्दुकं गृह्णाति। — कृषकः कन्दुके गृह्णाति।
(ङ) छात्रः श्लोकं पठति। — छात्रः श्लोकौ पठति।
प्रश्न ४. चित्रं दृष्ट्वा द्वितीयाविभक्तेः वाक्यानि रचयन्तु —
उत्तर –
बालकाः विद्यालयं गच्छन्ति।
पक्षिण: फलम् खादति।
शिक्षकः छात्रान् पाठयति।
नर्तकी नृत्यं करोति।
अहं कलमं स्वीकरोमि।
५. कोष्ठ के विद्यमानानां शब्दानां द्वितीयाविभक्तेः एकवचनरूपेण सह वाक्यानि लिखन्तु —
उत्तर –
(क) छात्राः ग्रन्थं पठन्ति।
(ख) बालकाः कथां लिखन्ति।
(ग) रमा लेखनीं क्रीणाति।
(घ) शिक्षकः माम् पाठयति।
(ङ) अर्जुनः नीतिं पृच्छति।
(च) पितामही जननीं आह्वयति।
(छ) अहम् त्वाम् नमस्करोमि।
(ज) कृषकः क्षेत्रं कर्षति।
(झ) पर्यटकः कन्याकुमारीं गच्छति।
(ञ) चित्रकारः चित्रं रचयति।
प्रश्न ६. द्वितीयाविभक्तेः एकवचनशब्दानां बहुवचने परिवर्तनं कृत्वा वाक्यानि रचयन्तु —
उत्तर –
(क) अरुरः दूरवाणीं नुदति। — अरुरः दूरवाणीः नुदति।
(ख) दीप्ता लेखनीम् आनयति। — दीप्ता लेखनीः आनयति।
(ग) जननी पाकं पचति। — जननी पाकान् पचति।
(घ) मातामहः मां बोधयति। — मातामहः अस्मान् बोधयति।
(ङ) अग्रजा त्वाम् आह्वयति। — अग्रजा युष्मान् आह्वयति।
७. अधः प्रदत्तं चित्रं दृष्ट्वा द्वितीयाविभक्तेः प्रयोगं कृत्वा दश वाक्यानि रचयन्तु —
उत्तर –
बालकाः कन्दुकं क्रीडन्ति।
छात्राः योगासनं कुर्वन्ति।
शिक्षकः छात्रं पाठयति।
बालिकाः चित्रं रचयन्ति।
छात्रौ सङ्गणकं पश्यतः।
खगाः फलानि खादन्ति।