वयम् अभ्यासं कुर्म:

 

१. पेटिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु (पेटी से शिष्टाचार के शब्द चुनकर लिखें)

उत्तरम्:

  • गुरुवन्दनम्,
  • वृद्धसेवा,
  • अतिथिसत्कारः,
  • मातृ-पितृ-प्रेम,
  • पितृभक्तिः,
  • ज्येष्ठेषु आदरः,
  • कनिष्ठेषु प्रीतिः,
  • बन्धुषु प्रीतिः,
  • स्वाभिमानम्,
  • परोपकारः,
  • प्राणिषु दया,
  • प्रियवचनम्,
  • सत्यकथनम्,
  • सत्पात्रे दानम्,
  • सर्वेषु मैत्रीभावः,
  • अहिंसा,
  • समयपालनम्,
  • स्वच्छता,
  • प्रकृतिरक्षणम्,
  • भ्रातृषु भगिनीषु च स्नेहः।

२. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु (उदाहरण के अनुसार समय को अंकों में लिखें)

(यथा – पादोन-सप्तवादनम् – ०६:४५)

सार्ध-दशवादनम् – १०:३०

दशवादनम् – १०:००

सपाद-षड्वादनम् – ०६:१५

सार्ध-चतुर्वादनम् – ०४:३०

पादोन-एकादशवादनम् – १०:४५

 

३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु (उदाहरण के अनुसार समय को शब्दों में लिखें)

(यथा – ०६:०० – षड्वादनम्) [८]

१२:०० – द्वादशवादनम् [८]

०५:३० – सार्ध-पञ्चवादनम् [८]

०६:४५ – पादोन-सप्तवादनम् [८]

०९:४५ – पादोन-दशवादनम् [८]

११:३० – सार्ध-एकादशवादनम् [८]

 

४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु (उदाहरण के अनुसार प्रश्न बनाएँ)

(यथा – सः सार्ध-सप्तवादने अध्ययनं करोति। – सः कदा अध्ययनं करोति?)

(क) सा सपाद-नववादने विद्यालयं गच्छति। – सा कदा विद्यालयं गच्छति?

(ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति। – सतीशः कदा भोजनं करोति?

(ग) यानं पञ्चवादने आगच्छति। – यानं कदा आगच्छति?

(घ) गोपालः षड्वादने गोदोहनं करोति। – गोपालः कदा गोदोहनं करोति?

(ङ) माता दशवादने कार्यालयं गच्छति। – माता कदा कार्यालयं गच्छति?

 

५. स्वस्य दिनचर्यां सप्तवाक्यैः लिखन्तु (अपनी दिनचर्या सात वाक्यों में लिखें)

उत्तर –

अहम् प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठामि

अहं सपाद-पञ्चवादने मुखप्रक्षालनं दन्तधावनं च करोमि

अहं सार्ध-पञ्चवादने सूर्यनमस्कारं रोगासनं च करोमि

अहं षड्वादने स्वाध्यायं करोमि

अहं पादोन-सप्तवादने स्नानं करोमि

अहं सार्ध-सप्तवादने प्रातराशं करोमि

अहं अष्टवादने विद्यालयं गच्छामि

 

६. वाक्येषु शिष्टाचारपदं योजयन्तु (वाक्यों में शिष्टाचार शब्द जोड़ें)

(विकल्प: नियमपालनं, सेवां, मैत्रीभावः, साहाय्यं, सत्कारं, दयाभावः)

(यथा – सेवकः मातापित्रोः सेवां करोति।)

(क) सा बुभुक्षितानां साहाय्यं करोति।

(ख) सर्वेषु प्राणिषु दयाभावः भवतु।

(ग) सर्वे छात्राः पाठशालायाः नियमपालनं कुर्वन्तु।

(घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः।

(ङ) परस्परं भ्रातृषु मैत्रीभावः भवतु।

Scroll to Top