प्रश्न १. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।

उत्तर –  छात्र सुभाषितानि याद करें।

 

प्रश्न २. पाठ के आधार पर प्रश्नों के उत्तर एक पद में लिखें (एकपदेन लिखत):

(क) वृक्षाः स्वयं कुत्र तिष्ठन्ति?

उत्तर: आतपे

(ख) परोपकाराय काः वहन्ति?

उत्तर: नद्यः

(ग) दशवापीसमः कः भवति?

उत्तर: ह्रदः

(घ) सत्पुरुषाः इव के सन्ति?

उत्तर: वृक्षाः

(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति?

उत्तर: महीरुहेभ्यः

(च) वृक्षाः स्वयं कानि न खादन्ति?

उत्तर: फलानि

 

प्रश्न ३. पाठस्य आधारेण अधोलिखितानां प्रश्‍ना नाम् उत्तराणि पूर्णवाक्येन लिखन्तु —

(क) नद्यः किं न पिबन्ति?

उत्तर: नद्यः स्वयमेव जलं न पिबन्ति।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति?

उत्तर: वृक्षाः अस्मभ्यं पुष्प-पत्र-फल-छाया-मूल-वल्कल-दारूणि च यच्छन्ति।

(ग) इदं शरीरं किमर्थम् अस्ति? (यह शरीर किस लिए है?)

उत्तर: इदं शरीरं परोपकाराय अस्ति।

(घ) दशपुत्रसमः कः भवति? (दस पुत्रों के बराबर कौन होता है?)

उत्तर: दशपुत्रसमः द्रुमः (वृक्षः) भवति।

(ङ) केषां विभूतयः परोपकाराय भवन्ति? (किनकी सम्पत्तियाँ परोपकार के लिए होती हैं?)

उत्तर: सतां (सज्जनानां) विभूतयः परोपकाराय भवन्ति।

(च) अन्येभ्यः छायां के कुर्वन्ति? (दूसरों के लिए छाया कौन करते हैं?)

उत्तर: वृक्षाः अन्येभ्यः छायां कुर्वन्ति।

 

प्रश्न ४. पट्टिका से उचित पद चुनकर रिक्त स्थान भरें:

(क) फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव।

(ख) दशह्रदसमः पुत्रः दशपुत्रसमो द्रुमः।

(ग) महीरुहाः येषां वै विमुखा यान्ति नार्थिनः।

(घ) परोपकाराय इदं शरीरम्।

(ङ) स्वयं न खादन्ति फलानि वृक्षाः।

(च) परोपकाराय सतां विभूतयः

 

प्रश्न ५. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्‍थूलाक्षरपदानां विभक्‍तिं निर्दिशन्तु —

उत्तर –

(क) छायाम् — द्वितीया विभक्ति

(ख) फलानि — द्वितीया विभक्ति

(ग) सत्पुरुषाः — प्रथमा विभक्ति

(घ) द्रुमः — प्रथमा विभक्ति

(ङ) प्राणिभ्यः — चतुर्थी/पञ्चमी विभक्ति

(च) नद्यः — प्रथमा विभक्ति

(छ) सज्जनानाम् — षष्ठी विभक्ति

 

प्रश्न ६. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु —

उत्तर –

एकवचनम् द्विवचनम् बहुवचनम्
वृक्षः वृक्षौ वृक्षाः
मेघः मेघौ मेघाः
ह्रदः ह्रदौ ह्रदाः
सत्पुरुषः सत्पुरुषौ सत्पुरुषाः
छाया छाये छायाः
वापी वाप्यौ वाप्यः
नदी नद्यौ नद्यः
शरीरम् शरीरे शरीराणि
पुष्पम् पुष्पे पुष्पाणि

 

प्रश्न ७. अधोलिखितानां पदानां परस्परं समुचित मेलनं कृत्वा ‘कः किं ददाति ’ इति लिखन्तु —

उत्तर –

(क) वृक्षाः — छायां फलं च

(ख) गौः — दुग्धं

(ग) सूर्यः — प्रकाशं/तापं

(घ) नदी — जलं

(ङ) अग्निः — तापं

(च) शिक्षिका — विद्यां

 

प्रश्न ८. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु —

उत्तर –

कुर्वन्ति = करोति — कुरुतः — कुर्वन्ति

तिष्ठन्ति = तिष्ठति — तिष्ठतः — तिष्ठन्ति

फलन्ति = फलति — फलतः — फलन्ति

यान्ति = याति — यातः — यान्ति

पिबन्ति = पिबति — पिबतः — पिबन्ति

खादन्ति = खादति — खादतः — खादन्ति

Scroll to Top