प्रश्न १. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति?
उत्तर: शशकाः
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति?
उत्तर: गजानाम्
(ग) शशकराजः कस्य समीपं गच्छति?
उत्तर: गजराजस्य
(घ) के स्वमतं प्रकाशयन्ति?
उत्तर: शशकाः
(ङ) कः चन्द्रं नमति?
उत्तर: गजराजः
(च) के सुखेन तिष्ठन्ति?
उत्तर: शशकाः
प्रश्न २. पूर्णवाक्येन उत्तराणि लिखत।
(क) चन्द्रः कदा प्रसन्नः भवति?
उत्तर: यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति।
(ख) सायङ्काले केषां सभा भवति?
उत्तर: सायङ्काले शशकानां सभा भवति।
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति?
उत्तर: गजानां परिभ्रमणेन बहवः शशकाः मृताः भवन्ति, अतः स्वस्रक्षार्थं ते उपायं चिन्तयन्ति।
(घ) चन्द्रः केन नामना प्रसिद्धः अस्ति?
उत्तर: चन्द्रः शशाङ्कः इति नामना प्रसिद्धः अस्ति।
(ङ) “आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः” इति कः कथयति?
उत्तर: एतत् शशकः कथयति।
प्रश्न ३. पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वाक्यानि पूरयन्तु —
उत्तर –
(क) किं चन्द्रः सरोवरे तिष्ठति?
(ख) सर्वे शशकाः उपायं चिन्तयन्ति।
(ग) सायंकाले शशकानां सभा भवति।
(घ) शशकाः सरोवरस्य तीरे निवसन्ति।
(ङ) सः गजराजं कथयति।
प्रश्न ४. उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु —
| पदम् | पुरुषः | वचनम् |
|---|---|---|
| तिष्ठन्ति | प्रथमपुरुषः | बहुवचनम् |
| जीवन्ति | प्रथमपुरुषः | बहुवचनम् |
| नमति | प्रथमपुरुषः | एकवचनम् |
| कथयति | प्रथमपुरुषः | एकवचनम् |
| गच्छति | प्रथमपुरुषः | एकवचनम् |
प्रश्न ५. धातु रूप तालिका पूरी करें:
धातु = एकवचनम् – द्विवचनम् – बहुवचनम्
कथ् = कथयति — कथयतः — कथयन्ति
स्था = तिष्ठति — तिष्ठतः — तिष्ठन्ति
कृ = करोति — कुरुतः — कुर्वन्ति
जीव् = जीवति — जीवतः — जीवन्ति
चल् = चलति — चलतः — चलन्ति
प्रश्न ६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु —
उत्तर –
१. अत्र एकः विशालः फलवृक्षः अस्ति।
२. वृक्षे बहूनि रक्तवर्णानि फलानि सन्ति।
३. एकः वानरः वृक्षस्य शाखायां स्थित्वा फलम् अधः क्षिपति।
४. बालकाः उत्साहेन फलानि गृह्णन्ति खादन्ति च।
५. उपवने वातावरणं अतीव सुखदं मनोहरं च अस्ति।
प्रश्न ७. पर्यायवाची शब्दों का मिलान करें:
उत्तर –
(क) गजः — हस्ती
(ख) पथम् — चरणः
(ग) चन्द्रः — शशाङ्कः
(घ) सरोवरः — जलाशयः
(ङ) प्रजा — जनता