प्रश्न १. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत।
(क) राधिका कथं चलति स्म ?
उत्तर: कूर्दमाना
(ख) गृहे कति अतिथयः सन्ति ?
उत्तर: पञ्च
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तर: राधिकां
(घ) मार्जार्याः कति शावकाः ?
उत्तर: चत्वारः
(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तर: क्षीरम्
(च) चित्रविचित्रः कः अस्ति ?
उत्तर: शबलः
प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत (पूर्ण वाक्य में उत्तर दें):
(क) मार्जारीशावकानां नामानि कानि ?
उत्तर: मार्जारीशावकानां नामानि – निर्वी, मृद्वी, शबलः भीमः च सन्ति।
(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तर: राधिका मार्जारीशावकान् ‘अतिथिदेवो भव’ इति पाठयति।
(ग) विशिष्टाः अतिथयः के ?
उत्तर: काचित् मार्जारी तस्याः चत्वारः शावकाः च विशिष्टाः अतिथयः सन्ति।
(घ) पितामही राधिकां किं वदति ?
उत्तर: पितामही राधिकां वदति यत् अतिथिः अस्माकं देवः अस्ति, अतः तस्य आदरेण सेवा करणीया।
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तर: यदा राधिका शावकानां समीपं गच्छति, तदा मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति।
(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?
उत्तर: निर्वी सुन्दरी, मृद्वी कोमला, शबलः चित्रविचित्रः तथा भीमः स्थूलः अस्ति।
प्रश्न ३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखत (प्रश्नवाचक वाक्य बनाएँ):
(यथा – लेखनी अत्र अस्ति। -> लेखनी कुत्र अस्ति?)
उत्तर –
(क) वृक्षः तत्र अस्ति। — वृक्षः कुत्र अस्ति?
(ख) देवालयः अन्यत्र अस्ति। — देवालयः कुत्र अस्ति?
(ग) वायुः सर्वत्र अस्ति। — वायुः कुत्र अस्ति?
(घ) बालाः एकत्र तिष्ठन्ति। — बालाः कुत्र तिष्ठन्ति?
(ङ) माता अत्र अस्ति। — माता कुत्र अस्ति?
प्रश्न ४. उत्पीठिकायां किं अस्ति? किं नास्ति? (चित्र देखकर लिखें):
उत्तर –
अस्ति :
उत्पीडिकायां पुस्तकम् अस्ति।
उत्पीडिकायां लेखनी अस्ति।
उत्पीडिकायां सङ्गणकम् अस्ति।
उत्पीडिकायां कन्दुकम् अस्ति।,
नास्ति :
उत्पीडिकायां घटी नास्ति।
उत्पीडिकायां चषकः नास्ति।
उत्पीडिकायां माला नास्ति।,
प्रश्न ६. भोजनशालायां किं किं अस्ति?
(सकपदानि :- पाचकः, पात्रम्, तण्डुलाः, शाकानि, अन्नम्, जलम्)
उत्तर –
भोजनशालायां पाचकः अस्ति।
भोजनशालायां पात्रम् अस्ति।
भोजनशालायां तण्डुलाः सन्ति।
भोजनशालायां शाकानि सन्ति।
भोजनशालायां जलम् अस्ति।
प्रश्न ७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदातन चित्वा लिखत (अव्यय शब्द चुनें):
(क) अमितः गृहात् बहि: गच्छति।
उत्तर – बहि:
(ख) एषः वानरः वृक्षस्य उपरि तिष्ठति।
उत्तर – उपरि
(ग) सः फलानि अधः क्षिपति।
उत्तर – अधः
(घ) तत्र एकः बिडालः अस्ति।
उत्तर – तत्र
(ङ) बिडालः गृहस्य अन्तः प्रविशति।
उत्तर – अन्तः
प्रश्न ८. उदाहरणानुसारं कः कुत्र अस्ति? कुत्र नास्ति?
मत्स्यः (समुद्रे/वृक्षे): मत्स्यः समुद्रे अस्ति। वृक्षे नास्ति।
उष्णता (सूर्ये/चन्द्रे): उष्णता सूर्ये अस्ति। चन्द्रे नास्ति।
वानरः (नद्याम्/वृक्षे): वानरः वृक्षे अस्ति। नद्यां नास्ति।
नौका (जले/पर्वते): नौका जले अस्ति। पर्वते नास्ति।
अज्ञानम् (पण्डिते/मूर्खे): अज्ञानम् मूर्खे अस्ति। पण्डिते नास्ति।