प्रश्न १. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत।

(क) राधिका कथं चलति स्म ?

उत्तर: कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?

उत्तर: पञ्च

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?

उत्तर: राधिकां

(घ) मार्जार्याः कति शावकाः ?

उत्तर: चत्वारः

(ङ) राधिका मार्जार्यै किं ददाति ?

उत्तर: क्षीरम्

(च) चित्रविचित्रः कः अस्ति ?

उत्तर: शबलः

 

प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत (पूर्ण वाक्य में उत्तर दें):

(क) मार्जारीशावकानां नामानि कानि ?

उत्तर: मार्जारीशावकानां नामानि – निर्वी, मृद्वी, शबलः भीमः च सन्ति।

(ख) राधिका मार्जारीशावकान् किं पाठयति ?

उत्तर: राधिका मार्जारीशावकान् ‘अतिथिदेवो भव’ इति पाठयति।

(ग) विशिष्टाः अतिथयः के ?

उत्तर: काचित् मार्जारी तस्याः चत्वारः शावकाः च विशिष्टाः अतिथयः सन्ति।

(घ) पितामही राधिकां किं वदति ?

उत्तर: पितामही राधिकां वदति यत् अतिथिः अस्माकं देवः अस्ति, अतः तस्य आदरेण सेवा करणीया।

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?

उत्तर: यदा राधिका शावकानां समीपं गच्छति, तदा मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति।

(च) मार्जार्याः शावकाः कीदृशाः सन्ति ?

उत्तर: निर्वी सुन्दरी, मृद्वी कोमला, शबलः चित्रविचित्रः तथा भीमः स्थूलः अस्ति।

 

प्रश्न ३. अधोलिखितानां वाक्यानां प्रश्न-सूचक-वाक्यानि लिखत (प्रश्नवाचक वाक्य बनाएँ):

(यथा – लेखनी अत्र अस्ति। -> लेखनी कुत्र अस्ति?)

उत्तर –

(क) वृक्षः तत्र अस्ति। — वृक्षः कुत्र अस्ति?

(ख) देवालयः अन्यत्र अस्ति। — देवालयः कुत्र अस्ति?

(ग) वायुः सर्वत्र अस्ति। — वायुः कुत्र अस्ति?

(घ) बालाः एकत्र तिष्ठन्ति। — बालाः कुत्र तिष्ठन्ति?

(ङ) माता अत्र अस्ति। — माता कुत्र अस्ति?

 

प्रश्न ४. उत्पीठिकायां किं अस्ति? किं नास्ति? (चित्र देखकर लिखें):

उत्तर –

अस्ति :

उत्पीडिकायां पुस्तकम् अस्ति।

उत्पीडिकायां लेखनी अस्ति।

उत्पीडिकायां सङ्गणकम् अस्ति।

उत्पीडिकायां कन्दुकम् अस्ति।,

नास्ति :

उत्पीडिकायां घटी नास्ति।

उत्पीडिकायां चषकः नास्ति।

उत्पीडिकायां माला नास्ति।,

 

प्रश्न ६. भोजनशालायां किं किं अस्ति?

(सकपदानि :- पाचकः, पात्रम्, तण्डुलाः, शाकानि, अन्नम्, जलम्)

उत्तर –

भोजनशालायां पाचकः अस्ति।

भोजनशालायां पात्रम् अस्ति।

भोजनशालायां तण्डुलाः सन्ति।

भोजनशालायां शाकानि सन्ति।

भोजनशालायां जलम् अस्ति।

 

प्रश्न ७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदातन चित्वा लिखत (अव्यय शब्द चुनें):

(क) अमितः गृहात् बहि: गच्छति।

उत्तर – बहि:

(ख) एषः वानरः वृक्षस्य उपरि तिष्ठति।

उत्तर – उपरि

(ग) सः फलानि अधः क्षिपति।

उत्तर – अधः

(घ) तत्र एकः बिडालः अस्ति।

उत्तर – तत्र

(ङ) बिडालः गृहस्य अन्तः प्रविशति।

उत्तर – अन्तः

 

प्रश्न ८. उदाहरणानुसारं कः कुत्र अस्ति? कुत्र नास्ति?

मत्स्यः (समुद्रे/वृक्षे): मत्स्यः समुद्रे अस्ति। वृक्षे नास्ति।

उष्णता (सूर्ये/चन्द्रे): उष्णता सूर्ये अस्ति। चन्द्रे नास्ति।

वानरः (नद्याम्/वृक्षे): वानरः वृक्षे अस्ति। नद्यां नास्ति।

नौका (जले/पर्वते): नौका जले अस्ति। पर्वते नास्ति।

अज्ञानम् (पण्डिते/मूर्खे): अज्ञानम् मूर्खे अस्ति। पण्डिते नास्ति।

Scroll to Top